१५.२३.१कुन्त्युवाच
१५.२३.२एवमेतन्महाबाहो यथा वदसि पाण्डव
कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप
१५.२३.३द्यूतापहृतराज्यानां पतितानां सुखादपि
ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया
१५.२३.४कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः
यशश्च वो न नश्येत इति चोद्धर्षणं कृतम्
१५.२३.५यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया
१५.२३.६कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः
पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम्
१५.२३.७नागायुतसमप्राणः ख्यातविक्रमपौरुषः
नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम्
१५.२३.८भीमसेनादवरजस्तथायं वासवोपमः
विजयो नावसीदेत इति चोद्धर्षणं कृतम्
१५.२३.९नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ
क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम्
१५.२३.१०इयं च बृहती श्यामा श्रीमत्यायतलोचना
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम्
१५.२३.११प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव
स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम्
१५.२३.१२दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत
तदैव विदितं मह्यं पराभूतमिदं कुलम्
१५.२३.१३विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः
यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा
१५.२३.१४केशपक्षे परामृष्टा पापेन हतबुद्धिना
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप
१५.२३.१५युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम्
तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः
१५.२३.१६कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम
पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम्
१५.२३.१७न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव
लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति
१५.२३.१८भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा
महादानानि दत्तानि पीतः सोमो यथाविधि
१५.२३.१९साहं नात्मफलार्थं वै वासुदेवमचूचुदम्
विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम्
१५.२३.२०नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम्
पतिलोकानहं पुण्यान्कामये तपसा विभो
१५.२३.२१श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्
१५.२३.२२निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह
धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च