१५. आश्रंवासिकपर्व
१५.२४.१वैशंपायन उवाच

१५.२४.२कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः

१५.२४.३ततः शब्दो महानासीत्सर्वेषामेव भारत
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम्

१५.२४.४प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै

१५.२४.५ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च

१५.२४.६युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि

१५.२४.७पुत्रैश्वर्यं महदिदमपास्य च महाफलम्
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्

१५.२४.८राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम्
अनया शक्यमद्येह श्रूयतां च वचो मम

१५.२४.९गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि

१५.२४.१०इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्

१५.२४.११न च सा वनवासाय देवीं कृतमतिं तदा
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम्

१५.२४.१२तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा

१५.२४.१३उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा

१५.२४.१४पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा

१५.२४.१५तदहृष्टमिवाकूजं गतोत्सवमिवाभवत्
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्

१५.२४.१६सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः

१५.२४.१७धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम्
ततो भागीरथीतीरे निवासमकरोत्प्रभुः

१५.२४.१८प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः
व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः

१५.२४.१९स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा
संध्यागतं सहस्रांशुमुपातिष्ठत भारत

१५.२४.२०विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः

१५.२४.२१गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता

१५.२४.२२तेषां संश्रवणे चापि निषेदुर्विदुरादयः
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः

१५.२४.२३प्राधीतद्विजमुख्या सा संप्रज्वालितपावका
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी

१५.२४.२४ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम्
उदङ्मुखा निरीक्षन्त उपवासपरायणाः

१५.२४.२५स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि
शोचतां शोच्यमानानां पौरजानपदैर्जनैः