१५.२५.१वैशंपायन उवाच
१५.२५.२ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते
निवासमकरोद्राजा विदुरस्य मते स्थितः
१५.२५.३तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः
क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ
१५.२५.४स तैः परिवृतो राजा कथाभिरभिनन्द्य तान्
अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च
१५.२५.५सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह
चकार विधिवच्छौचं गान्धारी च यशस्विनी
१५.२५.६तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः
१५.२५.७कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा
गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत्
१५.२५.८राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः
जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः
१५.२५.९ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः
सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः
१५.२५.१०तत्राश्रमपदं धीमानभिगम्य स पार्थिवः
आससादाथ राजर्षिः शतयूपं मनीषिणम्
१५.२५.११स हि राजा महानासीत्केकयेषु परंतपः
स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्
१५.२५.१२तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम्
१५.२५.१३स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा
१५.२५.१४तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः
आरण्यकं महाराज व्यासस्यानुमते तदा
१५.२५.१५एवं स तपसा राजा धृतराष्ट्रो महामनाः
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा
१५.२५.१६तथैव देवी गान्धारी वल्कलाजिनवासिनी
कुन्त्या सह महाराज समानव्रतचारिणी
१५.२५.१७कर्मणा मनसा वाचा चक्षुषा चापि ते नृप
संनियम्येन्द्रियग्राममास्थिताः परमं तपः
१५.२५.१८त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः
स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः
१५.२५.१९क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससंजयस्तं नृपतिं सदारम्
उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः