१५.२९.१वैशंपायन उवाच
१५.२९.२एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः
१५.२९.३ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे
१५.२९.४आविष्टा इव शोकेन नाभ्यनन्दन्त किंचन
संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन्
१५.२९.५ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्
१५.२९.६अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः
कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा
१५.२९.७कथं च स महीपालो हतपुत्रो निराश्रयः
पत्न्या सह वसत्येको वने श्वापदसेविते
१५.२९.८सा च देवी महाभागा गान्धारी हतबान्धवा
पतिमन्धं कथं वृद्धमन्वेति विजने वने
१५.२९.९एवं तेषां कथयतामौत्सुक्यमभवत्तदा
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया
१५.२९.१०सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्
अहो मे भवतो दृष्टं हृदयं गमनं प्रति
१५.२९.११न हि त्वा गौरवेणाहमशकं वक्तुमात्मना
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्
१५.२९.१२दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्
१५.२९.१३प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्
कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्
१५.२९.१४अनित्याः खलु मर्त्यानां गतयो भरतर्षभ
कुन्ती राजसुता यत्र वसत्यसुखिनी वने
१५.२९.१५सहदेववचः श्रुत्वा द्रौपदी योषितां वरा
उवाच देवी राजानमभिपूज्याभिनन्द्य च
१५.२९.१६कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा
जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप
१५.२९.१७एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि
१५.२९.१८अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च
१५.२९.१९इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ
सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत्
१५.२९.२०निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्
१५.२९.२१स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः
१५.२९.२२शकटापणवेशाश्च कोशशिल्पिन एव च
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति
१५.२९.२३यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्
अनावृतः सुविहितः स च यातु सुरक्षितः
१५.२९.२४सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम
१५.२९.२५प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्
क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च
१५.२९.२६एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः
श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः
१५.२९.२७स बहिर्दिवसानेवं जनौघं परिपालयन्
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति