१५.३०.१वैशंपायन उवाच
१५.३०.२आज्ञापयामास ततः सेनां भरतसत्तमः
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः
१५.३०.३योगो योग इति प्रीत्या ततः शब्दो महानभूत्
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति
१५.३०.४केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः
रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः
१५.३०.५गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप
पदातिनस्तथैवान्ये नखरप्रासयोधिनः
१५.३०.६पौरजानपदाश्चैव यानैर्बहुविधैस्तथा
अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया
१५.३०.७स चापि राजवचनादाचार्यो गौतमः कृपः
सेनामादाय सेनानी प्रययावाश्रमं प्रति
१५.३०.८ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः
१५.३०.९पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
रथानीकेन महता निर्ययौ कुरुनन्दनः
१५.३०.१०गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः
सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः
१५.३०.११माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ
जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ
१५.३०.१२अर्जुनश्च महातेजा रथेनादित्यवर्चसा
वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम्
१५.३०.१३द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः
स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु
१५.३०.१४समृद्धनरनागाश्वं वेणुवीणानिनादितम्
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ
१५.३०.१५नदीतीरेषु रम्येषु सरत्सु च विशां पते
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः
१५.३०.१६युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः
१५.३०.१७ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्
क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम्
१५.३०.१८स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह
१५.३०.१९ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा
विवेश सुमहानादैरापूर्य भरतर्षभ