१५.३.१वैशंपायन उवाच
१५.३.२स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः
नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने
१५.३.३वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः
१५.३.४सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव
१५.३.५प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह
वैचित्रवीर्ये नृपतौ समाचरति नित्यदा
१५.३.६यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः
गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी
१५.३.७तत्स राजा महाराज पाण्डवानां धुरंधरः
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा
१५.३.८तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः
अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम्
१५.३.९सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्
१५.३.१०ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम्
आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः
१५.३.११न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः
यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः
१५.३.१२ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत
तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा
१५.३.१३यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम्
अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत
१५.३.१४यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः
१५.३.१५न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै
उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः
१५.३.१६धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा
शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्
१५.३.१७अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम्
धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः
१५.३.१८राजानमनुवर्तन्तं धर्मपुत्रं महामतिम्
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः