१५.४.१वैशंपायन उवाच
१५.४.२युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा
नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति
१५.४.३यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः
१५.४.४तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्
नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा
१५.४.५अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा
१५.४.६अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः
१५.४.७स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि
प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः
१५.४.८अन्धस्य नृपतेः पुत्रा मया परिघबाहुना
नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः
१५.४.९इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः
१५.४.१०ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः
१५.४.११एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्
१५.४.१२सा च बुद्धिमती देवी कालपर्यायवेदिनी
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे
१५.४.१३ततः पञ्चदशे वर्षे समतीते नराधिपः
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः
१५.४.१४नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः
श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी
१५.४.१५माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम्
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किंचिदप्रियम्
१५.४.१६ततः समानयामास धृतराष्ट्रः सुहृज्जनम्
बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम्