१५.३४.१वैशंपायन उवाच
१५.३४.२एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम्
शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत
१५.३४.३तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः
विचित्रपदसंचारा नानाश्रुतिभिरन्विताः
१५.३४.४पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा
उत्सृज्य सुमहार्हाणि शयनानि नराधिप
१५.३४.५यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा
१५.३४.६व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः
भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम्
१५.३४.७सान्तःपुरपरीवारः सभृत्यः सपुरोहितः
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया
१५.३४.८ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः
१५.३४.९वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः
१५.३४.१०मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो
१५.३४.११केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः
कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः
१५.३४.१२प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम्
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम्
१५.३४.१३ततः स राजा प्रददौ तापसार्थमुपाहृतान्
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि
१५.३४.१४अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत
१५.३४.१५भाजनानि च लौहानि पात्रीश्च विविधा नृप
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्
१५.३४.१६एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः
१५.३४.१७कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम्
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा
१५.३४.१८मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम्
१५.३४.१९स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह
१५.३४.२०भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम्
अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया
१५.३४.२१स तैः परिवृतो राजा शुशुभेऽतीव कौरवः
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः
१५.३४.२२तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः
१५.३४.२३व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः
वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम्
१५.३४.२४ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान्
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन्
१५.३४.२५समागतस्ततो व्यासः शतयूपादिभिर्वृतः
धृतराष्ट्रं महीपालमास्यतामित्यभाषत
१५.३४.२६नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्
१५.३४.२७ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः