१५.३३.१धृतराष्ट्र उवाच
१५.३३.२युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा
१५.३३.३ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो
१५.३३.४कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्
कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते
१५.३३.५अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि
१५.३३.६कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ
शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा
१५.३३.७कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः
अतिथींश्चान्नपानेन कच्चिदर्चसि भारत
१५.३३.८कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव
क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः
१५.३३.९कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ
१५.३३.१०कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्
यथोचितं महाराज यशसा नावसीदति
१५.३३.११वैशंपायन उवाच
१५.३३.१२इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत
कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि
१५.३३.१३कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा
अप्यस्याः सफलो राजन्वनवासो भविष्यति
१५.३३.१४इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति
१५.३३.१५हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा
१५.३३.१६क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम्
संजयः कुशली चायं कच्चिन्नु तपसि स्थितः
१५.३३.१७इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्
कुशली विदुरः पुत्र तपो घोरं समास्थितः
१५.३३.१८वायुभक्षो निराहारः कृशो धमनिसंततः
कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्
१५.३३.१९इत्येवं वदतस्तस्य जटी वीटामुखः कृशः
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः
१५.३३.२०दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः
निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति
१५.३३.२१तमन्वधावन्नृपतिरेक एव युधिष्ठिरः
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित्
१५.३३.२२भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत
१५.३३.२३ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः
विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे
१५.३३.२४तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः
१५.३३.२५युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः
विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया
१५.३३.२६ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः
१५.३३.२७विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च
१५.३३.२८स योगबलमास्थाय विवेश नृपतेस्तनुम्
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव
१५.३३.२९विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम्
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्
१५.३३.३०बलवन्तं तथात्मानं मेने बहुगुणं तदा
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः
१५.३३.३१पौराणमात्मनः सर्वं विद्यावान्स विशां पते
योगधर्मं महातेजा व्यासेन कथितं यथा
१५.३३.३२धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा
दग्धुकामोऽभवद्विद्वानथ वै वागभाषत
१५.३३.३३भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम्
कलेवरमिहैतत्ते धर्म एष सनातनः
१५.३३.३४लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव
यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप
१५.३३.३५इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत्
१५.३३.३६ततः स राजा द्युतिमान्स च सर्वो जनस्तदा
भीमसेनादयश्चैव परं विस्मयमागताः
१५.३३.३७तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत्
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्
१५.३३.३८यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः
इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम्
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः
१५.३३.३९ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः
तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः