१५. आश्रंवासिकपर्व
१५.३७.१वैशंपायन उवाच

१५.३७.२तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्
पुनर्नवीकृतः शोको गान्धार्या जनमेजय

१५.३७.३कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च
तासां च वरनारीणां वधूनां कौरवस्य ह

१५.३७.४पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता

१५.३७.५षोडशेमानि वर्षाणि गतानि मुनिपुंगव
अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो

१५.३७.६पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने

१५.३७.७लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्

१५.३७.८इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्
शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा

१५.३७.९तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी
सौभद्रवधसंतप्ता भृशं शोचति भामिनी

१५.३७.१०इयं च भूरिश्रवसो भार्या परमदुःखिता
भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो

१५.३७.११यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः
निहतः सोमदत्तश्च पित्रा सह महारणे

१५.३७.१२श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे

१५.३७.१३तस्य भार्याशतमिदं पुत्रशोकसमाहतम्
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च
तेनारम्भेण महता मामुपास्ते महामुने

१५.३७.१४ये च शूरा महात्मानः श्वशुरा मे महारथाः
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो

१५.३७.१५तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः
कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव

१५.३७.१६इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम्

१५.३७.१७तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः

१५.३७.१८तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्
तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते

१५.३७.१९ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा
उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम्