१५. आश्रंवासिकपर्व
१५.३८.१कुन्त्युवाच

१५.३८.२भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम

१५.३८.३तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम्

१५.३८.४शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा
कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन

१५.३८.५स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम्
अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः

१५.३८.६ततः शापभयाद्विप्रमवोचं पुनरेव तम्
एवमस्त्विति च प्राह पुनरेव स मां द्विजः

१५.३८.७धर्मस्य जननी भद्रे भवित्री त्वं वरानने
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि

१५.३८.८इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम्
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति

१५.३८.९अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्
स्थिताहं बालभावेन तत्र दोषमबुध्यती

१५.३८.१०अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्
द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च
तताप लोकानेकेन द्वितीयेनागमच्च माम्

१५.३८.११स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह
गम्यतामिति तं चाहं प्रणम्य शिरसावदम्

१५.३८.१२स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम्
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव

१५.३८.१३तमहं रक्षती विप्रं शापादनपराधिनम्
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम्

१५.३८.१४ततो मां तेजसाविश्य मोहयित्वा च भानुमान्
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्

१५.३८.१५ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्

१५.३८.१६नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु
कन्याहमभवं विप्र यथा प्राह स मामृषिः

१५.३८.१७स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः
तन्मां दहति विप्रर्षे यथा सुविदितं तव

१५.३८.१८यदि पापमपापं वा तदेतद्विवृतं मया
तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि

१५.३८.१९यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ
तं चायं लभतां काममद्यैव मुनिसत्तम

१५.३८.२०इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः
साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम्

१५.३८.२१अपराधश्च ते नास्ति कन्याभावं गता ह्यसि
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै

१५.३८.२२सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये
वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा

१५.३८.२३मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते
इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः

१५.३८.२४सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्