१५. आश्रंवासिकपर्व
१५.४५.१वैशंपायन उवाच

१५.४५.२द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्

१५.४५.३तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः

१५.४५.४चिरस्य खलु पश्यामि भगवन्तमुपस्थितम्
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्

१५.४५.५के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते
तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः

१५.४५.६नारद उवाच

१५.४५.७चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात्
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप

१५.४५.८युधिष्ठिर उवाच

१५.४५.९वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः
धृतराष्ट्रं महात्मानमास्थितं परमं तपः

१५.४५.१०अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः

१५.४५.११कथं च वर्तते चाद्य पिता मम स पार्थिवः
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः

१५.४५.१२नारद उवाच

१५.४५.१३स्थिरीभूय महाराज शृणु सर्वं यथातथम्
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने

१५.४५.१४वनवासनिवृत्तेषु भवत्सु कुरुनन्दन
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप

१५.४५.१५गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः
संजयेन च सूतेन साग्निहोत्रः सयाजकः

१५.४५.१६आतस्थे स तपस्तीव्रं पिता तव तपोधनः
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः

१५.४५.१७वने स मुनिभिः सर्वैः पूज्यमानो महातपाः
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः

१५.४५.१८गान्धारी तु जलाहारा कुन्ती मासोपवासिनी
संजयः षष्ठभक्तेन वर्तयामास भारत

१५.४५.१९अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह

१५.४५.२०अनिकेतोऽथ राजा स बभूव वनगोचरः
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः

१५.४५.२१संजयो नृपतेर्नेता समेषु विषमेषु च
गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता

१५.४५.२२ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्

१५.४५.२३अथ वायुः समुद्भूतो दावाग्निरभवन्महान्
ददाह तद्वनं सर्वं परिगृह्य समन्ततः

१५.४५.२४दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्

१५.४५.२५समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे
निराहारतया राजा मन्दप्राणविचेष्टितः
असमर्थोऽपसरणे सुकृशौ मातरौ च ते

१५.४५.२६ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्
इदमाह ततः सूतं संजयं पृथिवीपते

१५.४५.२७गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्

१५.४५.२८तमुवाच किलोद्विग्नः संजयो वदतां वरः
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना

१५.४५.२९न चोपायं प्रपश्यामि मोक्षणे जातवेदसः
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति

१५.४५.३०इत्युक्तः संजयेनेदं पुनराह स पार्थिवः
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्

१५.४५.३१जलमग्निस्तथा वायुरथ वापि विकर्शनम्
तापसानां प्रशस्यन्ते गच्छ संजय माचिरम्

१५.४५.३२इत्युक्त्वा संजयं राजा समाधाय मनस्तदा
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा

१५.४५.३३संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो

१५.४५.३४ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः
संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा

१५.४५.३५गान्धारी च महाभागा जननी च पृथा तव
दावाग्निना समायुक्ते स च राजा पिता तव

१५.४५.३६संजयस्तु महामात्रस्तस्माद्दावादमुच्यत
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः

१५.४५.३७स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः
प्रययौ संजयः सूतो हिमवन्तं महीधरम्

१५.४५.३८एवं स निधनं प्राप्तः कुरुराजो महामनाः
गान्धारी च पृथा चैव जनन्यौ ते नराधिप

१५.४५.३९यदृच्छयानुव्रजता मया राज्ञः कलेवरम्
तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ

१५.४५.४०ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः
श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते

१५.४५.४१तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव

१५.४५.४२न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते

१५.४५.४३वैशंपायन उवाच

१५.४५.४४एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम्
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्

१५.४५.४५अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्

१५.४५.४६अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते

१५.४५.४७अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्

१५.४५.४८तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्

१५.४५.४९तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्