१५.४४.१जनमेजय उवाच
१५.४४.२दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः
१५.४४.३वैशंपायन उवाच
१५.४४.४तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः
वीतशोकः स राजर्षिः पुनराश्रममागमत्
१५.४४.५इतरस्तु जनः सर्वस्ते चैव परमर्षयः
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया
१५.४४.६पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः
अनुजग्मुर्महात्मानं सदारं तं महीपतिम्
१५.४४.७तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः
मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत
१५.४४.८धृतराष्ट्र महाबाहो शृणु कौरवनन्दन
श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्
१५.४४.९ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः
१५.४४.१०मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्
१५.४४.११गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम्
यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः
१५.४४.१२युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते
सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः
१५.४४.१३विसर्जयैनं यात्वेष स्वराज्यमनुशासताम्
मासः समधिको ह्येषामतीतो वसतां वने
१५.४४.१४एतद्धि नित्यं यत्नेन पदं रक्ष्यं परंतप
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप
१५.४४.१५इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्
१५.४४.१६अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते
१५.४४.१७रमे चाहं त्वया पुत्र पुरेव गजसाह्वये
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना
१५.४४.१८प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि
न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम्
१५.४४.१९भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते
तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः
१५.४४.२०मातरौ ते तथैवेमे शीर्णपर्णकृताशने
मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः
१५.४४.२१दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः
व्यासस्य तपसो वीर्याद्भवतश्च समागमात्
१५.४४.२२प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ
उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि
१५.४४.२३त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्
श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम्
१५.४४.२४राजनीतिः सुबहुशः श्रुता ते भरतर्षभ
संदेष्टव्यं न पश्यामि कृतमेतावता विभो
१५.४४.२५इत्युक्तवचनं तात नृपो राजानमब्रवीत्
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्
१५.४४.२६कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा
भवन्तमहमन्विष्ये मातरौ च यतव्रते
१५.४४.२७तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे
१५.४४.२८गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम्
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः
१५.४४.२९इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह
स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः
१५.४४.३०विसर्जयति मां राजा गान्धारी च यशस्विनी
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः
१५.४४.३१न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि
तपसो हि परं नास्ति तपसा विन्दते महत्
१५.४४.३२ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा
१५.४४.३३शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा
१५.४४.३४पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः
न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे
१५.४४.३५सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे
अवशेषास्तु निहता द्रोणपुत्रेण वै निशि
१५.४४.३६चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः
केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात्
यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम्
१५.४४.३७शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव
भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः
१५.४४.३८एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः
१५.४४.३९नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने
१५.४४.४०इहैव शोषयिष्यामि तपसाहं कलेवरम्
पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः
१५.४४.४१तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम
१५.४४.४२आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः
उपरोधो भवेदेवमस्माकं तपसः कृते
१५.४४.४३त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात्
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो
१५.४४.४४एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः
१५.४४.४५ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन्
१५.४४.४६राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः
१५.४४.४७एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना
अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम्
१५.४४.४८भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान्
१५.४४.४९अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ
अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च
१५.४४.५०गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम्
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे
१५.४४.५१पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम्
तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः
१५.४४.५२न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः
संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह
१५.४४.५३ततः प्रजज्ञे निनदः सूतानां युज्यतामिति
उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि
१५.४४.५४ततो युधिष्ठिरो राजा सदारः सहसैनिकः
नगरं हास्तिनपुरं पुनरायात्सबान्धवः