१५.६.१युधिष्ठिर उवाच
१५.६.२न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप
धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्
१५.६.३योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप
यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह
१५.६.४अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः
१५.६.५किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्
१५.६.६पीडितं चापि जानामि राज्यमात्मानमेव च
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर
१५.६.७भवान्पिता भवान्माता भवान्नः परमो गुरुः
भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम्
१५.६.८औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम
अस्तु राजा महाराज यं चान्यं मन्यते भवान्
१५.६.९अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम्
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि
१५.६.१०नाहं राजा भवान्राजा भवता परवानहम्
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे
१५.६.११न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ
भवितव्यं तथा तद्धि वयं ते चैव मोहिताः
१५.६.१२वयं हि पुत्रा भवतो यथा दुर्योधनादयः
गान्धारी चैव कुन्ती च निर्विशेषे मते मम
१५.६.१३स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि
पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे
१५.६.१४इयं हि वसुसंपूर्णा मही सागरमेखला
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्
१५.६.१५भवदीयमिदं सर्वं शिरसा त्वां प्रसादये
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः
१५.६.१६भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप
दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम्
१५.६.१७धृतराष्ट्र उवाच
१५.६.१८तापस्ये मे मनस्तात वर्तते कुरुनन्दन
उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो
१५.६.१९चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया
वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप
१५.६.२०वैशंपायन उवाच
१५.६.२१इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम्
उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः
१५.६.२२संजयं च महामात्रं कृपं चापि महारथम्
अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम्
१५.६.२३ग्लायते मे मनो हीदं मुखं च परिशुष्यति
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि
१५.६.२४इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्
१५.६.२५तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम्
आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा
१५.६.२६युधिष्ठिर उवाच
१५.६.२७यस्य नागसहस्रेण दशसंख्येन वै बलम्
सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत्
१५.६.२८आयसी प्रतिमा येन भीमसेनस्य वै पुरा
चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम्
१५.६.२९धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः
१५.६.३०अहमप्युपवत्स्यामि यथैवायं गुरुर्मम
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी
१५.६.३१वैशंपायन उवाच
१५.६.३२ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्
१५.६.३३तेन रत्नौषधिमता पुण्येन च सुगन्धिना
पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह