१५. आश्रंवासिकपर्व
१५.५.१धृतराष्ट्र उवाच

१५.५.२विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः

१५.५.३योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम्
दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम्

१५.५.४यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत्
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः

१५.५.५पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च

१५.५.६पदे पदे भगवता व्यासेन च महात्मना
संजयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम्

१५.५.७यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु
न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम्

१५.५.८विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः
एतच्छ्रेयः स परमममन्यत जनार्दनः

१५.५.९सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा
हृदये शल्यभूतानि धारयामि सहस्रशः

१५.५.१०विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः

१५.५.११चतुर्थे नियते काले कदाचिदपि चाष्टमे
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम

१५.५.१२करोत्याहारमिति मां सर्वः परिजनः सदा
युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः

१५.५.१३भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः
नियमव्यपदेशेन गान्धारी च यशस्विनी

१५.५.१४हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम्
नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः

१५.५.१५भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे
सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः

१५.५.१६महादानानि दत्तानि श्राद्धानि च पुनः पुनः
प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम्
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्

१५.५.१७द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः
समतीता नृशंसास्ते धर्मेण निहता युधि

१५.५.१८न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः

१५.५.१९आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि

१५.५.२०त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्

१५.५.२१अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः

१५.५.२२उचितं नः कुले तात सर्वेषां भरतर्षभ
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप

१५.५.२३तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्
पत्न्या सहानया वीर चरिष्यामि तपः परम्

१५.५.२४त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि
फलभाजो हि राजानः कल्याणस्येतरस्य वा