१५. आश्रंवासिकपर्व
१५.८.१व्यास उवाच

१५.८.२युधिष्ठिर महाबाहो यदाह कुरुनन्दनः
धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन्

१५.८.३अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम

१५.८.४गान्धारी च महाभागा प्राज्ञा करुणवेदिनी
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्

१५.८.५अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः
अनुज्ञां लभतां राजा मा वृथेह मरिष्यति

१५.८.६राजर्षीणां पुराणानामनुयातु गतिं नृपः
राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः

१५.८.७वैशंपायन उवाच

१५.८.८इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा
प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः

१५.८.९भगवानेव नो मान्यो भगवानेव नो गुरुः
भगवानस्य राज्यस्य कुलस्य च परायणम्

१५.८.१०अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः

१५.८.११इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः
युधिष्ठिरं महातेजाः पुनरेव विशां पते

१५.८.१२एवमेतन्महाबाहो यथा वदसि भारत
राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः

१५.८.१३सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते
करोतु स्वमभिप्रायं मास्य विघ्नकरो भव

१५.८.१४एष एव परो धर्मो राजर्षीणां युधिष्ठिर
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्

१५.८.१५पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता
शिष्यभूतेन राजायं गुरुवत्पर्युपासितः

१५.८.१६क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः
महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः

१५.८.१७पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु

१५.८.१८त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः
आराधितः सभृत्येन गान्धारी च यशस्विनी

१५.८.१९अनुजानीहि पितरं समयोऽस्य तपोविधौ
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर

१५.८.२०एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम्
तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम्

१५.८.२१गते भगवति व्यासे राजा पाण्डुसुतस्ततः
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः

१५.८.२२यदाह भगवान्व्यासो यच्चापि भवतो मतम्
यदाह च महेष्वासः कृपो विदुर एव च

१५.८.२३युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा
सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः

१५.८.२४इदं तु याचे नृपते त्वामहं शिरसा नतः
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति