१५. आश्रंवासिकपर्व
१५.९.१वैशंपायन उवाच

१५.९.२ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान्
ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा

१५.९.३मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन्
पदातिः स महीपालो जीर्णो गजपतिर्यथा

१५.९.४तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः
स चापि परमेष्वासः कृपः शारद्वतस्तथा

१५.९.५स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा

१५.९.६गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी
वधूभिरुपचारेण पूजिताभुङ्क्त भारत

१५.९.७कृताहारं कृताहाराः सर्वे ते विदुरादयः
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्

१५.९.८ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः

१५.९.९अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते

१५.९.१०तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन
राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत्

१५.९.११विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्

१५.९.१२प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः

१५.९.१३ते तु संमानिता राजंस्त्वया राज्यहितार्थिना
प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन

१५.९.१४इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय
हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा

१५.९.१५अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः

१५.९.१६चारयेथाश्च सततं चारैरविदितैः परान्
परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च

१५.९.१७पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्
अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम्

१५.९.१८तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च

१५.९.१९पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः
आत्मा च रक्ष्यः सततं भोजनादिषु भारत

१५.९.२०विहाराहारकालेषु माल्यशय्यासनेषु च
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर

१५.९.२१मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान्
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्

१५.९.२२तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्

१५.९.२३सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः
अरण्ये निःशलाके वा न च रात्रौ कथंचन

१५.९.२४वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः

१५.९.२५मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम्
न ते शक्याः समाधातुं कथंचिदिति मे मतिः

१५.९.२६दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले
अभेदे च गुणान्राजन्पुनः पुनररिंदम

१५.९.२७पौरजानपदानां च शौचाशौचं युधिष्ठिर
यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम