१६. मौसलपर्व
१६.२.१जनमेजय उवाच

१६.२.२कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः

१६.२.३वैशंपायन उवाच

१६.२.४षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः

१६.२.५जनमेजय उवाच

१६.२.६केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे

१६.२.७वैशंपायन उवाच

१६.२.८विश्वामित्रं च कण्वं च नारदं च तपोधनम्
सारणप्रमुखा वीरा ददृशुर्द्वारकागतान्

१६.२.९ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा
अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः

१६.२.१०इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः
ऋषयः साधु जानीत किमियं जनयिष्यति

१६.२.११इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः
प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप

१६.२.१२वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति

१६.२.१३येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ

१६.२.१४समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति

१६.२.१५इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्

१६.२.१६तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः

१६.२.१७अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्

१६.२.१८एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान्
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः

१६.२.१९श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्

१६.२.२०प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन्
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्

१६.२.२१प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात्
अघोषयंश्च नगरे वचनादाहुकस्य च

१६.२.२२अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः

१६.२.२३यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः

१६.२.२४ततो राजभयात्सर्वे नियमं चक्रिरे तदा
नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः