१६. मौसलपर्व
१६.१.१वैशंपायन उवाच
षट्त्रिंशे त्वथ संप्राप्ते वर्षे कौरवनन्दनः
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

१६.१.२ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे

१६.१.३प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः
उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि

१६.१.४आदित्यो रजसा राजन्समवच्छन्नमण्डलः
विरश्मिरुदये नित्यं कबन्धैः समदृश्यत

१६.१.५परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः

१६.१.६एते चान्ये च बहव उत्पाता भयशंसिनः
दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः

१६.१.७कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम्

१६.१.८विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः
समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत

१६.१.९परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन्

१६.१.१०निधनं वासुदेवस्य समुद्रस्येव शोषणम्
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः

१६.१.११मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः
विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन्