१८. स्वर्गारोहण पर्व
१८.२.१युधिष्ठिर उवाच

१८.२.२नेह पश्यामि विबुधा राधेयममितौजसम्
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ

१८.२.३जुहुवुर्ये शरीराणि रणवह्नौ महारथाः
राजानो राजपुत्राश्च ये मदर्थे हता रणे

१८.२.४क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः

१८.२.५यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः

१८.२.६कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः
न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा

१८.२.७मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै

१८.२.८इदं च परितप्यामि पुनः पुनरहं सुराः
यन्मातुः सदृशौ पादौ तस्याहममितौजसः

१८.२.९दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे

१८.२.१०तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्
अविज्ञातो मया योऽसौ घातितः सव्यसाचिना

१८.२.११भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम
अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ

१८.२.१२द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्
न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः

१८.२.१३किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः
यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम

१८.२.१४देवा ऊचुः

१८.२.१५यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम्
प्रिये हि तव वर्तामो देवराजस्य शासनात्

१८.२.१६वैशंपायन उवाच

१८.२.१७इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्
युधिष्ठिरस्य सुहृदो दर्शयेति परंतप

१८.२.१८ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः

१८.२.१९अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः

१८.२.२०तमसा संवृतं घोरं केशशैवलशाद्वलम्
युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम्

१८.२.२१दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम्
इतश्चेतश्च कुणपैः समन्तात्परिवारितम्

१८.२.२२अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम्

१८.२.२३अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम्
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम्

१८.२.२४मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः
निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः

१८.२.२५स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्
जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन्

१८.२.२६ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्
असिपत्रवनं चैव निशितक्षुरसंवृतम्

१८.२.२७करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक्
लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः

१८.२.२८कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम्
ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम्

१८.२.२९स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह
कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम्

१८.२.३०क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्

१८.२.३१स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्
देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव

१८.२.३२निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः
यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि

१८.२.३३युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः
निवर्तने धृतमनाः पर्यावर्तत भारत

१८.२.३४स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः
शुश्राव तत्र वदतां दीना वाचः समन्ततः

१८.२.३५भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम्

१८.२.३६आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः
तव गन्धानुगस्तात येनास्मान्सुखमागमत्

१८.२.३७ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम

१८.२.३८संतिष्ठस्व महाबाहो मुहूर्तमपि भारत
त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते

१८.२.३९एवं बहुविधा वाचः कृपणा वेदनावताम्
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप

१८.२.४०तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम्
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः

१८.२.४१स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः

१८.२.४२अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ

१८.२.४३इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो

१८.२.४४नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत
द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः

१८.२.४५ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप
ततो विममृशे राजा किं न्विदं दैवकारितम्

१८.२.४६किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया

१८.२.४७य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे
न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम्

१८.२.४८किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः
तथा श्रिया युतः पापः सह सर्वैः पदानुगैः

१८.२.४९महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः
कस्येदानीं विकारोऽयं यदिमे नरकं गताः

१८.२.५०सर्वधर्मविदः शूराः सत्यागमपरायणाः
क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः

१८.२.५१किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः

१८.२.५२एवं बहुविधं राजा विममर्श युधिष्ठिरः
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः

१८.२.५३क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः

१८.२.५४स तीव्रगन्धसंतप्तो देवदूतमुवाच ह
गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम्

१८.२.५५न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम्
मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे

१८.२.५६इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता
जगाम तत्र यत्रास्ते देवराजः शतक्रतुः

१८.२.५७निवेदयामास च तद्धर्मराजचिकीर्षितम्
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप