१८. स्वर्गारोहण पर्व
१८.१.१जनमेजय उवाच
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे

१८.१.२एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः
महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा

१८.१.३वैशंपायन उवाच

१८.१.४स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु

१८.१.५स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः
दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने

१८.१.६भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः

१८.१.७ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने

१८.१.८ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै
सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना

१८.१.९यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने

१८.१.१०द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी
परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ

१८.१.११स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम

१८.१.१२मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव
स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति

१८.१.१३युधिष्ठिर महाबाहो मैवं वोचः कथंचन
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम

१८.१.१४एष दुर्योधनो राजा पूज्यते त्रिदशैः सह
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः

१८.१.१५वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम्
यूयं सर्वे सुरसमा येन युद्धे समासिताः

१८.१.१६स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्
भये महति योऽभीतो बभूव पृथिवीपतिः

१८.१.१७न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि

१८.१.१८ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः
संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि

१८.१.१९समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप

१८.१.२०नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह

१८.१.२१यदि दुर्योधनस्यैते वीरलोकाः सनातनाः
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः

१८.१.२२यत्कृते पृथिवी नष्टा सहया सरथद्विपा
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः

१८.१.२३ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः

१८.१.२४तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्
कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम्

१८.१.२५धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः

१८.१.२६क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्

१८.१.२७शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद