२.१४.१युधिष्ठिर उवाच
२.१४.२उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि
२.१४.३गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक्
२.१४.४कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति
परेण समवेतस्तु यः प्रशस्तः स पूज्यते
२.१४.५विशाला बहुला भूमिर्बहुरत्नसमाचिता
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह
२.१४.६शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः
२.१४.७एवमेवाभिजानन्ति कुले जाता मनस्विनः
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन
२.१४.८भीम उवाच
२.१४.९अनारम्भपरो राजा वल्मीक इव सीदति
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति
२.१४.१०अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम्
जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान्
२.१४.११कृष्णे नयो मयि बलं जयः पार्थे धनंजये
मागधं साधयिष्यामो वयं त्रय इवाग्नयः
२.१४.१२कृष्ण उवाच
२.१४.१३आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्
२.१४.१४हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः
कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः
२.१४.१५निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः
बार्हद्रथो जरासंधस्तद्विद्धि भरतर्षभ
२.१४.१६न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः
तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः
२.१४.१७रत्नभाजो हि राजानो जरासंधमुपासते
न च तुष्यति तेनापि बाल्यादनयमास्थितः
२.१४.१८मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात्
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित्
२.१४.१९एवं सर्वान्वशे चक्रे जरासंधः शतावरान्
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति
२.१४.२०प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे
पशूनामिव का प्रीतिर्जीविते भरतर्षभ
२.१४.२१क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः
ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम्
२.१४.२२षडशीतिः समानीताः शेषा राजंश्चतुर्दश
जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते
२.१४.२३प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्
जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत्