२. सभापर्व
२.१३.१श्रीकृष्ण उवाच

२.१३.२सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि
जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत

२.१३.३जामदग्न्येन रामेण क्षत्रं यदवशेषितम्
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्

२.१३.४कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ

२.१३.५ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि

२.१३.६ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः
तानि चैकशतं विद्धि कुलानि भरतर्षभ

२.१३.७ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान्
भजते च महाराज विस्तरः स चतुर्दिशम्

२.१३.८तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत

२.१३.९चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत्
स साम्राज्यं जरासंधः प्राप्तो भवति योनितः

२.१३.१०तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्

२.१३.११तमेव च महाराज शिष्यवत्समुपस्थितः
वक्रः करूषाधिपतिर्मायायोधी महाबलः

२.१३.१२अपरौ च महावीर्यौ महात्मानौ समाश्रितौ
जरासंधं महावीर्यं तौ हंसडिभकावुभौ

२.१३.१३दन्तवक्रः करूषश्च कलभो मेघवाहनः
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः

२.१३.१४मुरं च नरकं चैव शास्ति यो यवनाधिपौ
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा

२.१३.१५भगदत्तो महाराज वृद्धस्तव पितुः सखा
स वाचा प्रणतस्तस्य कर्मणा चैव भारत

२.१३.१६स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः

२.१३.१७मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः
स ते संनतिमानेकः स्नेहतः शत्रुतापनः

२.१३.१८जरासंधं गतस्त्वेवं पुरा यो न मया हतः
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः

२.१३.१९आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्

२.१३.२०वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः

२.१३.२१चतुर्युः स महाराज भोज इन्द्रसखो बली
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान्

२.१३.२२भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि
स भक्तो मागधं राजा भीष्मकः परवीरहा

२.१३.२३प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः

२.१३.२४न कुलं न बलं राजन्नभिजानंस्तथात्मनः
पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः

२.१३.२५उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो
जरासंधभयादेव प्रतीचीं दिशमाश्रिताः

२.१३.२६शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह

२.१३.२७शाल्वेयानां च राजानः सोदर्यानुचरैः सह
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः

२.१३.२८तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः
मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः

२.१३.२९तथैव सर्वपाञ्चाला जरासंधभयार्दिताः
स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम्

२.१३.३०कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान्
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः

२.१३.३१अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले
बलेन तेन स ज्ञातीनभिभूय वृथामतिः

२.१३.३२श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना

२.१३.३३ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा

२.१३.३४संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्
हतौ कंससुनामानौ मया रामेण चाप्युत

२.१३.३५भये तु समुपक्रान्ते जरासंधे समुद्यते
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः

२.१३.३६अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम्

२.१३.३७तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ

२.१३.३८तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान्
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः

२.१३.३९न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर

२.१३.४०अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः
स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः

२.१३.४१हतो हंस इति प्रोक्तमथ केनापि भारत
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत

२.१३.४२विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे
इत्येतां मतिमास्थाय डिभको निधनं गतः

२.१३.४३तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत

२.१३.४४तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ

२.१३.४५ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे
पुनरानन्दिताः सर्वे मथुरायां वसामहे

२.१३.४६यदा त्वभ्येत्य पितरं सा वै राजीवलोचना
कंसभार्या जरासंधं दुहिता मागधं नृपम्

२.१३.४७चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता
पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम

२.१३.४८ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्
संस्मरन्तो विमनसो व्यपयाता नराधिप

२.१३.४९पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम्
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः

२.१३.५०इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्

२.१३.५१पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप
तथैव दुर्गसंस्कारं देवैरपि दुरासदम्

२.१३.५२स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः

२.१३.५३आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्

२.१३.५४एवं वयं जरासंधादादितः कृतकिल्बिषाः
सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः

२.१३.५५त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि
योजनान्ते शतद्वारं विक्रमक्रमतोरणम्
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः

२.१३.५६अष्टादश सहस्राणि व्रातानां सन्ति नः कुले
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः

२.१३.५७चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि

२.१३.५८एवमेते रथाः सप्त राजन्नन्यान्निबोध मे
कृतवर्मा अनाधृष्टिः समीकः समितिंजयः

२.१३.५९कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश

२.१३.६०लोकसंहनना वीरा वीर्यवन्तो महाबलाः
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः

२.१३.६१स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत

२.१३.६२न तु शक्यं जरासंधे जीवमाने महाबले
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम

२.१३.६३तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः

२.१३.६४सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः

२.१३.६५स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्

२.१३.६६वयं चैव महाराज जरासंधभयात्तदा
मथुरां संपरित्यज्य गता द्वारवतीं पुरीम्

२.१३.६७यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि
यतस्व तेषां मोक्षाय जरासंधवधाय च

२.१३.६८समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर

२.१३.६९इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः