२.२०.१जरासंध उवाच
२.२०.२न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्
२.२०.३वैकृते चासति कथं मन्यध्वं मामनागसम्
अरिं विब्रूत तद्विप्राः सतां समय एष हि
२.२०.४अथ धर्मोपघाताद्धि मनः समुपतप्यते
योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः
२.२०.५अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च
२.२०.६त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम्
अनागसं प्रजानानाः प्रमादादिव जल्पथ
२.२०.७वासुदेव उवाच
२.२०.८कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः
वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः
२.२०.९त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः
तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम्
२.२०.१०राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम
तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि
२.२०.११अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम्
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः
२.२०.१२मनुष्याणां समालम्भो न च दृष्टः कदाचन
स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम्
२.२०.१३सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति
कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः
२.२०.१४ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः
ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः
२.२०.१५नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत्
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः
२.२०.१६को हि जानन्नभिजनमात्मनः क्षत्रियो नृप
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम्
२.२०.१७स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः
यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप
२.२०.१८स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः
स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान्
२.२०.१९एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः
येनासुरान्पराजित्य जगत्पाति शतक्रतुः
२.२०.२०स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः
२.२०.२१मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे
समं तेजस्त्वया चैव केवलं मनुजेश्वर
२.२०.२२यावदेव न संबुद्धं तावदेव भवेत्तव
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते
२.२०.२३जहि त्वं सदृशेष्वेव मानं दर्पं च मागध
मा गमः ससुतामात्यः सबलश्च यमक्षयम्
२.२०.२४दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः
२.२०.२५मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ
२.२०.२६त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध
मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम्
२.२०.२७जरासंध उवाच
२.२०.२८नाजितान्वै नरपतीनहमादद्मि कांश्चन
जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः
२.२०.२९क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्
विक्रम्य वशमानीय कामतो यत्समाचरेत्
२.२०.३०देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात्
अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन्
२.२०.३१सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा
२.२०.३२वैशंपायन उवाच
२.२०.३३एवमुक्त्वा जरासंधः सहदेवाभिषेचनम्
आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः
२.२०.३४स तु सेनापती राजा सस्मार भरतर्षभ
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते
२.२०.३५ययोस्ते नामनी लोके हंसेति डिभकेति च
पूर्वं संकथिते पुम्भिर्नृलोके लोकसत्कृते
२.२०.३६तं तु राजन्विभुः शौरी राजानं बलिनां वरम्
स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम्
२.२०.३७सत्यसंधो जरासंधं भुवि भीमपराक्रमम्
भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः
२.२०.३८नात्मनात्मवतां मुख्य इयेष मधुसूदनः
ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः