२. सभापर्व
२.२४.१वैशंपायन उवाच

२.२४.२तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्

२.२४.३अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्
तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः

२.२४.४विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः
तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः

२.२४.५तैरेव सहितः सर्वैरनुरज्य च तान्नृपान्
कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान्

२.२४.६मृदङ्गवरनादेन रथनेमिस्वनेन च
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्

२.२४.७ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा
निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम्

२.२४.८सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्

२.२४.९सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः
उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः

२.२४.१०स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्

२.२४.११मोदापुरं वामदेवं सुदामानं सुसंकुलम्
कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत्

२.२४.१२तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्
व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः

२.२४.१३स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत्
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः

२.२४.१४स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः

२.२४.१५विजित्य चाहवे शूरान्पार्वतीयान्महारथान्
ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम्

२.२४.१६पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः
गणानुत्सवसंकेतानजयत्सप्त पाण्डवः

२.२४.१७ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह

२.२४.१८ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः

२.२४.१९अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः
उरशावासिनं चैव रोचमानं रणेऽजयत्

२.२४.२०ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्
प्रामथद्बलमास्थाय पाकशासनिराहवे

२.२४.२१ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः

२.२४.२२ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः
महता परिमर्देन वशे चक्रे दुरासदान्

२.२४.२३गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः
दरदान्सह काम्बोजैरजयत्पाकशासनिः

२.२४.२४प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः

२.२४.२५लोहान्परमकाम्बोजानृषिकानुत्तरानपि
सहितांस्तान्महाराज व्यजयत्पाकशासनिः

२.२४.२६ऋषिकेषु तु संग्रामो बभूवातिभयंकरः
तारकामयसंकाशः परमर्षिकपार्थयोः

२.२४.२७स विजित्य ततो राजन्नृषिकान्रणमूर्धनि
शुकोदरसमप्रख्यान्हयानष्टौ समानयत्
मयूरसदृशानन्यानुभयानेव चापरान्

२.२४.२८स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्
श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः