२. सभापर्व
२.४३.१वैशंपायन उवाच

२.४३.२वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ
शनैर्ददर्श तां सर्वां सभां शकुनिना सह

२.४३.३तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये

२.४३.४स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः
स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया

२.४३.५स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः
दुर्मना विमुखश्चैव परिचक्राम तां सभाम्

२.४३.६ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्
वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले

२.४३.७जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम्
वासांसि च शुभान्यस्मै प्रददू राजशासनात्

२.४३.८तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा

२.४३.९नामर्षयत्ततस्तेषामवहासममर्षणः
आकारं रक्षमाणस्तु न स तान्समुदैक्षत

२.४३.१०पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्
आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः

२.४३.११द्वारं च विवृताकारं ललाटेन समाहनत्
संवृतं चेति मन्वानो द्वारदेशादुपारमत्

२.४३.१२एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः

२.४३.१३अप्रहृष्टेन मनसा राजसूये महाक्रतौ
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम्

२.४३.१४पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः
दुर्योधनस्य नृपतेः पापा मतिरजायत

२.४३.१५पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह

२.४३.१६महिमानं परं चापि पाण्डवानां महात्मनाम्
दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत

२.४३.१७स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन्
श्रियं च तामनुपमां धर्मराजस्य धीमतः

२.४३.१८प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः

२.४३.१९अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत
दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि

२.४३.२०दुर्योधन उवाच

२.४३.२१दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः

२.४३.२२तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल
यथा शक्रस्य देवेषु तथाभूतं महाद्युते

२.४३.२३अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम्
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम्

२.४३.२४पश्य सात्वतमुख्येन शिशुपालं निपातितम्
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः

२.४३.२५दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना
क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति

२.४३.२६वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम्
सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम्

२.४३.२७तथा हि रत्नान्यादाय विविधानि नृपा नृपम्
उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः

२.४३.२८श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे
अमर्षवशमापन्नो दह्येऽहमतथोचितः

२.४३.२९वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्

२.४३.३०को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान्
सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च

२.४३.३१सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्

२.४३.३२ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत्

२.४३.३३अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये

२.४३.३४दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा

२.४३.३५कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल
तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम्

२.४३.३६तेन दैवं परं मन्ये पौरुषं तु निरर्थकम्
धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः

२.४३.३७सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्
रक्षिभिश्चावहासं तं परितप्ये यथाग्निना

२.४३.३८स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम्
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय