२.५९.१दुर्योधन उवाच
२.५९.२एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम्
संमार्जतां वेश्म परैतु शीघ्र;मानन्दो नः सह दासीभिरस्तु
२.५९.३विदुर उवाच
२.५९.४दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः
प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात्
२.५९.५आशीविषाः शिरसि ते पूर्णकोशा महाविषाः
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम्
२.५९.६न हि दासीत्वमापन्ना कृष्णा भवति भारत
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः
२.५९.७अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः
द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले
२.५९.८नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्
२.५९.९समुच्चरन्त्यतिवादा हि वक्त्रा;द्यैराहतः शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु
२.५९.१०अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम्
निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः
२.५९.११न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा
तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव
२.५९.१२द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र
त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन
२.५९.१३मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव
मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति
२.५९.१४अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः
वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव