२. सभापर्व
२.६.१वैशंपायन उवाच

२.६.२संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः

२.६.३भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम्
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया

२.६.४राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्

२.६.५वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः

२.६.६एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्

२.६.७नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः
अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः

२.६.८भवान्संचरते लोकान्सदा नानाविधान्बहून्
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः

२.६.९ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित्
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः

२.६.१०तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा

२.६.११मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता
सभा मणिमयी राजन्यथेयं तव भारत

२.६.१२सभां तु पितृराजस्य वरुणस्य च धीमतः
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च

२.६.१३ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ

२.६.१४नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः

२.६.१५नारदं प्रत्युवाचेदं धर्मराजो महामनाः
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्

२.६.१६किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः
पितामहं च के तस्यां सभायां पर्युपासते

२.६.१७वासवं देवराजं च यमं वैवस्वतं च के
वरुणं च कुबेरं च सभायां पर्युपासते

२.६.१८एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः

२.६.१९एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम्
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः