२.५.१वैशंपायन उवाच
२.५.२तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत
२.५.३लोकाननुचरन्सर्वानागमत्तां सभामृषिः
नारदः सुमहातेजा ऋषिभिः सहितस्तदा
२.५.४पारिजातेन राजेन्द्र रैवतेन च धीमता
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः
२.५.५तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह
अभ्यवादयत प्रीत्या विनयावनतस्तदा
२.५.६तदर्हमासनं तस्मै संप्रदाय यथाविधि
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्
२.५.७सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्
२.५.८नारद उवाच
२.५.९कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः
सुखानि चानुभूयन्ते मनश्च न विहन्यते
२.५.१०कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः
वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु
२.५.११कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे
२.५.१२कच्चिदर्थं च धर्मं च कामं च जयतां वर
विभज्य काले कालज्ञ सदा वरद सेवसे
२.५.१३कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ
बलाबलं तथा सम्यक्चतुर्दश परीक्षसे
२.५.१४कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर
तथा संधाय कर्माणि अष्टौ भारत सेवसे
२.५.१५कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ
आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः
२.५.१६कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः
त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम्
२.५.१७कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे
कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे
२.५.१८कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः
कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः
२.५.१९विजयो मन्त्रमूलो हि राज्ञां भवति भारत
सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः
२.५.२०कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्
२.५.२१कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति
२.५.२२कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्
२.५.२३कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः
सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम्
२.५.२४कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्
२.५.२५कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः
२.५.२६कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम्
२.५.२७कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः
२.५.२८एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्
२.५.२९कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः
२.५.३०कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन
२.५.३१कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः
२.५.३२कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
हुतं च होष्यमाणं च काले वेदयते सदा
२.५.३३कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव
२.५.३४कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः
२.५.३५अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु
२.५.३६कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ
२.५.३७कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः
२.५.३८कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव
२.५.३९कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः
२.५.४०कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्
संप्राप्तकालं दातव्यं ददासि न विकर्षसि
२.५.४१कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः
२.५.४२कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः
कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि
२.५.४३कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान्
अनुशास्सि यथाकामं कामात्मा शासनातिगः
२.५.४४कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन्
लभते मानमधिकं भूयो वा भक्तवेतनम्
२.५.४५कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान्
यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे
२.५.४६कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम्
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ
२.५.४७कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम्
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि
२.५.४८कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते
समश्च नाभिशङ्क्यश्च यथा माता यथा पिता
२.५.४९कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्
२.५.५०पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम्
बलस्य च महाराज दत्त्वा वेतनमग्रतः
२.५.५१कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः
२.५.५२कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान्
२.५.५३कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः
२.५.५४कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि
२.५.५५कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः
बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी
२.५.५६कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप
अविहाय महाराज विहंसि समरे रिपून्
२.५.५७कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव
अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम्
२.५.५८कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव
२.५.५९कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम्
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः
२.५.६०कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्
२.५.६१कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव
२.५.६२कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः
पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव
२.५.६३कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान्
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्
२.५.६४कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव
२.५.६५कच्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान्
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्
२.५.६६कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत
२.५.६७कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः
२.५.६८कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा
त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः
२.५.६९कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च
भागशो विनिविष्टानि न कृषिर्देवमातृका
२.५.७०कच्चिद्बीजं च भक्तं च कर्षकायावसीदते
प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्
२.५.७१कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः
वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते
२.५.७२कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव
२.५.७३कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः
ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः
२.५.७४कच्चिद्बलेनानुगताः समानि विषमाणि च
पुराणचौराः साध्यक्षाश्चरन्ति विषये तव
२.५.७५कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे
२.५.७६कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च
प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम्
२.५.७७कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते
संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे
२.५.७८कच्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान्
उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः
२.५.७९कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः
अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम
२.५.८०कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च
२.५.८१कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि
२.५.८२कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा
२.५.८३कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते
अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथंचन
२.५.८४कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च
२.५.८५कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः
त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन
२.५.८६कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः
मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर
२.५.८७कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः
कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः
२.५.८८कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते
ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा
२.५.८९कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः
वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे
२.५.९०कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्
२.५.९१कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान्
२.५.९२कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि
२.५.९३कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी
२.५.९४एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति
विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते
२.५.९५कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः
२.५.९६पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ
२.५.९७व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः
२.५.९८नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम्
२.५.९९एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम्
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्
२.५.१००मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश
२.५.१०१कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम्
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्
२.५.१०२युधिष्ठिर उवाच
२.५.१०३कथं वै सफला वेदाः कथं वै सफलं धनम्
कथं वै सफला दाराः कथं वै सफलं श्रुतम्
२.५.१०४नारद उवाच
२.५.१०५अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्
२.५.१०६वैशंपायन उवाच
२.५.१०७एतदाख्याय स मुनिर्नारदः सुमहातपाः
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्
२.५.१०८नारद उवाच
२.५.१०९कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः
२.५.११०कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः
उपानयन्ति पण्यानि उपधाभिरवञ्चिताः
२.५.१११कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः
नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम्
२.५.११२कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च
धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी
२.५.११३द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम्
चातुर्मास्यावरं सम्यङ्नियतं संप्रयच्छसि
२.५.११४कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि
सतां मध्ये महाराज सत्करोषि च पूजयन्
२.५.११५कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो
२.५.११६कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ
धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम्
२.५.११७कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ
विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः
२.५.११८कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि
२.५.११९कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान्
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि
२.५.१२०वैशंपायन उवाच
२.५.१२१एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य
प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम्
२.५.१२२एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा
उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च
२.५.१२३नारद उवाच
२.५.१२४एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे
स विहृत्येह सुसुखी शक्रस्यैति सलोकताम्