२.६७.१वैशंपायन उवाच
२.६७.२ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः
२.६७.३उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर
एहि पाण्डव दीव्येति पिता त्वामाह भारत
२.६७.४युधिष्ठिर उवाच
२.६७.५धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि
२.६७.६अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे
२.६७.७वैशंपायन उवाच
२.६७.८इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः
२.६७.९विविशुस्ते सभां तां तु पुनरेव महारथाः
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः
२.६७.१०यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये
सर्वलोकविनाशाय दैवेनोपनिपीडिताः
२.६७.११शकुनिरुवाच
२.६७.१२अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्
महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ
२.६७.१३वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः
प्रविशेम महारण्यं रौरवाजिनवाससः
२.६७.१४त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
२.६७.१५अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः
२.६७.१६त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्
स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः
२.६७.१७अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत
२.६७.१८सभासद ऊचुः
२.६७.१९अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्
बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः
२.६७.२०वैशंपायन उवाच
२.६७.२१जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः
ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः
२.६७.२२जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत्
अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन्
२.६७.२३युधिष्ठिर उवाच
२.६७.२४कथं वै मद्विधो राजा स्वधर्ममनुपालयन्
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया
२.६७.२५शकुनिरुवाच
२.६७.२६गवाश्वं बहुधेनूकमपर्यन्तमजाविकम्
गजाः कोशो हिरण्यं च दासीदासं च सर्वशः
२.६७.२७एष नो ग्लह एवैको वनवासाय पाण्डवाः
यूयं वयं वा विजिता वसेम वनमाश्रिताः
२.६७.२८अनेन व्यवसायेन दीव्याम भरतर्षभ
समुत्क्षेपेण चैकेन वनवासाय भारत
२.६७.२९वैशंपायन उवाच
२.६७.३०प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत