२. सभापर्व
२.७२.१वैशंपायन उवाच

२.७२.२वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्

२.७२.३तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्
निःश्वसन्तमनेकाग्रमिति होवाच संजयः

२.७२.४अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि

२.७२.५धृतराष्ट्र उवाच

२.७२.६अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति
पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः

२.७२.७संजय उवाच

२.७२.८तवेदं सुकृतं राजन्महद्वैरं भविष्यति
विनाशः सर्वलोकस्य सानुबन्धो भविष्यति

२.७२.९वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्

२.७२.१०प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्

२.७२.११धृतराष्ट्र उवाच

२.७२.१२यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति

२.७२.१३बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयान्नापसर्पति

२.७२.१४अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः
उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते

२.७२.१५न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्
कालस्य बलमेतावद्विपरीतार्थदर्शनम्

२.७२.१६आसादितमिदं घोरं तुमुलं लोमहर्षणम्
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्

२.७२.१७अयोनिजां रूपवतीं कुले जातां विभावरीम्
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्

२.७२.१८पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम्
स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम्

२.७२.१९एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम्
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः

२.७२.२०विहीनान्सर्वकामेभ्यो दासभाववशं गतान्
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे

२.७२.२१क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्

२.७२.२२तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी
अपि शेषं भवेदद्य पुत्राणां मम संजय

२.७२.२३भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्

२.७२.२४अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे

२.७२.२५आसीन्निष्टानको घोरो निर्घातश्च महानभूत्
दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत्
अपर्वणि महाघोरं प्रजानां जनयन्भयम्

२.७२.२६तथैव रथशालासु प्रादुरासीद्धुताशनः
ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये

२.७२.२७दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः
तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम्

२.७२.२८प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः

२.७२.२९ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति

२.७२.३०अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्

२.७२.३१अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्
एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता

२.७२.३२एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति

२.७२.३३तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः

२.७२.३४तेन सत्याभिसंधेन वासुदेवेन रक्षिताः
आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः

२.७२.३५तेषां मध्ये महेष्वासो भीमसेनो महाबलः
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः

२.७२.३६ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः
गदावेगं च भीमस्य नालं सोढुं नराधिपाः

२.७२.३७तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्

२.७२.३८तथा हि बलवान्राजा जरासंधो महाद्युतिः
बाहुप्रहरणेनैव भीमेन निहतो युधि

२.७२.३९तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया

२.७२.४०एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः
उक्तवान्न गृहीतं च मया पुत्रहितेप्सया