२. सभापर्व
२.७१.१धृतराष्ट्र उवाच

२.७१.२कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः
भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ

२.७१.३धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी
श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम्

२.७१.४विदुर उवाच

२.७१.५वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः
बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः

२.७१.६सिकता वपन्सव्यसाची राजानमनुगच्छति
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति

२.७१.७पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः
दर्शनीयतमो लोके राजानमनुगच्छति

२.७१.८कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना
दर्शनीया प्ररुदती राजानमनुगच्छति

२.७१.९धौम्यो याम्यानि सामानि रौद्राणि च विशां पते
गायन्गच्छति मार्गेषु कुशानादाय पाणिना

२.७१.१०धृतराष्ट्र उवाच

२.७१.११विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते

२.७१.१२विदुर उवाच

२.७१.१३निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः

२.७१.१४योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत
निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने

२.७१.१५नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः

२.७१.१६यथा च भीमो व्रजति तन्मे निगदतः शृणु
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ

२.७१.१७बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति
बाहू दर्शयमानो हि बाहुद्रविणदर्पितः
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः

२.७१.१८प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा
सिकता वपन्सव्यसाची राजानमनुगच्छति

२.७१.१९असक्ताः सिकतास्तस्य यथा संप्रति भारत
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु

२.७१.२०न मे कश्चिद्विजानीयान्मुखमद्येति भारत
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति

२.७१.२१नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो
पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति

२.७१.२२एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत्

२.७१.२३यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे
हतपत्यो हतसुता हतबन्धुजनप्रियाः

२.७१.२४बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः
एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम्

२.७१.२५कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः
सामानि गायन्याम्यानि पुरतो याति भारत

२.७१.२६हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति

२.७१.२७हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः

२.७१.२८एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्
कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः

२.७१.२९एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत

२.७१.३०राहुरग्रसदादित्यमपर्वणि विशां पते
उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत

२.७१.३१प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः
देवायतनचैत्येषु प्राकाराट्टालकेषु च

२.७१.३२एवमेते महोत्पाता वनं गच्छति पाण्डवे
भारतानामभावाय राजन्दुर्मन्त्रिते तव

२.७१.३३नारदश्च सभामध्ये कुरूणामग्रतः स्थितः
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह

२.७१.३४इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः
दुर्योधनापराधेन भीमार्जुनबलेन च

२.७१.३५इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः

२.७१.३६ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्

२.७१.३७अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम्
दुःशासनं च कर्णं च सर्वानेव च भारतान्

२.७१.३८अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः
अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम्

२.७१.३९गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान्
नोत्सहे समभित्यक्तुं दैवमूलमतः परम्

२.७१.४०धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः
ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः

२.७१.४१चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः

२.७१.४२मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे
पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत

२.७१.४३याजोपयाजतपसा पुत्रं लेभे स पावकात्
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम्

२.७१.४४ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी
मर्त्यधर्मतया तस्मादिति मां भयमाविशत्

२.७१.४५गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः
सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः

२.७१.४६मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः

२.७१.४७त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम्
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी

२.७१.४८यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम्

२.७१.४९दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि
साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे

२.७१.५०वैशंपायन उवाच

२.७१.५१द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्

२.७१.५२यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः