३. वनपर्व
३.१०५.१लोमश उवाच

३.१०५.२एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ

३.१०५.३षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव

३.१०५.४ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः
बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान्

३.१०५.५त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्
सर्वाणि चैव भूतानि शूराः समरशालिनः

३.१०५.६वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः

३.१०५.७तानुवाच महाभागः सर्वलोकपितामहः
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम्

३.१०५.८नातिदीर्घेण कालेन सागराणां क्षयो महान्
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः

३.१०५.९एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्

३.१०५.१०ततः काले बहुतिथे व्यतीते भरतर्षभ
दीक्षितः सगरो राजा हयमेधेन वीर्यवान्
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः

३.१०५.११समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत

३.१०५.१२ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्

३.१०५.१३ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्
अमार्गन्त महाराज सर्वं च पृथिवीतलम्

३.१०५.१४ततस्ते सागराः सर्वे समुपेत्य परस्परम्
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च

३.१०५.१५आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः
ससमुद्रवनद्वीपा सनदीनदकन्दरा
सपर्वतवनोद्देशा निखिलेन मही नृप

३.१०५.१६अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च

३.१०५.१७श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः
उवाच वचनं सर्वांस्तदा दैववशान्नृप

३.१०५.१८अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्
यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः

३.१०५.१९प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः

३.१०५.२०अथापश्यन्त ते वीराः पृथिवीमवदारिताम्
समासाद्य बिलं तच्च खनन्तः सगरात्मजाः
कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा

३.१०५.२१स खन्यमानः सहितैः सागरैर्वरुणालयः
अगच्छत्परमामार्तिं दार्यमाणः समन्ततः

३.१०५.२२असुरोरगरक्षांसि सत्त्वानि विविधानि च
आर्तनादमकुर्वन्त वध्यमानानि सागरैः

३.१०५.२३छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः

३.१०५.२४एवं हि खनतां तेषां समुद्रं मकरालयम्
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत

३.१०५.२५ततः पूर्वोत्तरे देशे समुद्रस्य महीपते
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः
अपश्यन्त हयं तत्र विचरन्तं महीतले

३.१०५.२६कपिलं च महात्मानं तेजोराशिमनुत्तमम्
तपसा दीप्यमानं तं ज्वालाभिरिव पावकम्