३.१०६.१लोमश उवाच
३.१०६.२ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः
अनादृत्य महात्मानं कपिलं कालचोदिताः
संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः
३.१०६.३ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः
वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम्
३.१०६.४स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन्
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्
३.१०६.५तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः
सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत्
३.१०६.६स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्
आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत्
३.१०६.७अंशुमन्तं समाहूय असमञ्जःसुतं तदा
पौत्रं भरतशार्दूल इदं वचनमब्रवीत्
३.१०६.८षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्
कापिलं तेज आसाद्य मत्कृते निधनं गताः
३.१०६.९तव चापि पिता तात परित्यक्तो मयानघ
धर्मं संरक्षमाणेन पौराणां हितमिच्छता
३.१०६.१०युधिष्ठिर उवाच
३.१०६.११किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन
३.१०६.१२लोमश उवाच
३.१०६.१३असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत्
यं शैब्या जनयामास पौराणां स हि दारकान्
खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान्
३.१०६.१४ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः
सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः
३.१०६.१५त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः
असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि
३.१०६.१६पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत्
३.१०६.१७असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम्
३.१०६.१८एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप
यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः
३.१०६.१९एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना
पौराणां हितकामेन सगरेण विवासितः
३.१०६.२०अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे
३.१०६.२१सगर उवाच
३.१०६.२२पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च
अलाभेन तथाश्वस्य परितप्यामि पुत्रक
३.१०६.२३तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्
हयस्यानयनात्पौत्र नरकान्मां समुद्धर
३.१०६.२४लोमश उवाच
३.१०६.२५अंशुमानेवमुक्तस्तु सगरेण महात्मना
जगाम दुःखात्तं देशं यत्र वै दारिता मही
३.१०६.२६स तु तेनैव मार्गेण समुद्रं प्रविवेश ह
अपश्यच्च महात्मानं कपिलं तुरगं च तम्
३.१०६.२७स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्
३.१०६.२८ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत्
उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत
३.१०६.२९स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्
द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया
३.१०६.३०तमुवाच महातेजाः कपिलो मुनिपुंगवः
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ
३.१०६.३१त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता
३.१०६.३२तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति
पावनार्थं सागराणां तोषयित्वा महेश्वरम्
३.१०६.३३हयं नयस्व भद्रं ते यज्ञियं नरपुंगव
यज्ञः समाप्यतां तात सगरस्य महात्मनः
३.१०६.३४अंशुमानेवमुक्तस्तु कपिलेन महात्मना
आजगाम हयं गृह्य यज्ञवाटं महात्मनः
३.१०६.३५सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः
मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत्
३.१०६.३६यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम्
३.१०६.३७तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्
अंशुमन्तं च संपूज्य समापयत तं क्रतुम्
३.१०६.३८समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्
३.१०६.३९प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः
पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा
३.१०६.४०अंशुमानपि धर्मात्मा महीं सागरमेखलाम्
प्रशशास महाराज यथैवास्य पितामहः
३.१०६.४१तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्
तस्मै राज्यं समाधाय अंशुमानपि संस्थितः
३.१०६.४२दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत्
३.१०६.४३गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः
न चावतारयामास चेष्टमानो यथाबलम्
३.१०६.४४तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः
भगीरथ इति ख्यातः सत्यवागनसूयकः
३.१०६.४५अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः
तपःसिद्धिसमायोगात्स राजा भरतर्षभ
वनाज्जगाम त्रिदिवं कालयोगेन भारत