३.१०७.१लोमश उवाच
३.१०७.२स तु राजा महेष्वासश्चक्रवर्ती महारथः
बभूव सर्वलोकस्य मनोनयननन्दनः
३.१०७.३स शुश्राव महाबाहुः कपिलेन महात्मना
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च
३.१०७.४स राज्यं सचिवे न्यस्य हृदयेन विदूयता
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः
३.१०७.५आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्
३.१०७.६शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्
पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः
३.१०७.७नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्
गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम्
३.१०७.८शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः
३.१०७.९मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि
३.१०७.१०जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्
सारसानां च मधुरैर्व्याहृतैः समलंकृतम्
३.१०७.११किंनरैरप्सरोभिश्च निषेवितशिलातलम्
दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम्
३.१०७.१२विद्याधरानुचरितं नानारत्नसमाकुलम्
विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम्
३.१०७.१३क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्
क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत्
३.१०७.१४स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः
फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान्
३.१०७.१५संवत्सरसहस्रे तु गते दिव्ये महानदी
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्
३.१०७.१६गङ्गोवाच
३.१०७.१७किमिच्छसि महाराज मत्तः किं च ददानि ते
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव
३.१०७.१८लोमश उवाच
३.१०७.१९एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा
पितामहा मे वरदे कपिलेन महानदि
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्
३.१०७.२०षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्
कापिलं तेज आसाद्य क्षणेन निधनं गताः
३.१०७.२१तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि
३.१०७.२२स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्
तेषामर्थेऽभियाचामि त्वामहं वै महानदि
३.१०७.२३एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता
भगीरथमिदं वाक्यं सुप्रीता समभाषत
३.१०७.२४करिष्यामि महाराज वचस्ते नात्र संशयः
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम्
३.१०७.२५न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्
३.१०७.२६तं तोषय महाबाहो तपसा वरदं हरम्
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति
करिष्यति च ते कामं पितॄणां हितकाम्यया
३.१०७.२७एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः
कैलासं पर्वतं गत्वा तोषयामास शंकरम्
३.१०७.२८ततस्तेन समागम्य कालयोगेन केनचित्
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप
स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः