३. वनपर्व
३.११.१धृतराष्ट्र उवाच

३.११.२एवमेतन्महाप्राज्ञ यथा वदसि नो मुने
अहं चैव विजानामि सर्वे चेमे नराधिपाः

३.११.३भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम्
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने

३.११.४यदि त्वहमनुग्राह्यः कौरवेषु दया यदि
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम

३.११.५व्यास उवाच

३.११.६अयमायाति वै राजन्मैत्रेयो भगवानृषिः
अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया

३.११.७एष दुर्योधनं पुत्रं तव राजन्महानृषिः
अनुशास्ता यथान्यायं शमायास्य कुलस्य ते

३.११.८ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया
अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा

३.११.९वैशंपायन उवाच

३.११.१०एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः

३.११.११दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम्
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः

३.११.१२सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः

३.११.१३समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति

३.११.१४मैत्रेय उवाच

३.११.१५तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम्
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने

३.११.१६तं जटाजिनसंवीतं तपोवननिवासिनम्
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो

३.११.१७तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्
अनयं द्यूतरूपेण महापायमुपस्थितम्

३.११.१८ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो

३.११.१९नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति
यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप

३.११.२०मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे

३.११.२१दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन
तेन न भ्राजसे राजंस्तापसानां समागमे

३.११.२२वैशंपायन उवाच

३.११.२३ततो व्यावृत्य राजानं दुर्योधनममर्षणम्
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः

३.११.२४दुर्योधन महाबाहो निबोध वदतां वर
वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव

३.११.२५मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ

३.११.२६ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः

३.११.२७सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः

३.११.२८इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम्
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः

३.११.२९तं भीमः समरश्लाघी बलेन बलिनां वरः
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा

३.११.३०पश्य दिग्विजये राजन्यथा भीमेन पातितः
जरासंधो महेष्वासो नागायुतबलो युधि

३.११.३१संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः
कस्तान्युधि समासीत जरामरणवान्नरः

३.११.३२तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः

३.११.३३एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते
ऊरुं गजकराकारं करेणाभिजघान सः

३.११.३४दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम्
न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः

३.११.३५तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्

३.११.३६स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः
विधिना संप्रयुक्तश्च शापायास्य मनो दधे

३.११.३७ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्

३.११.३८यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि

३.११.३९त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्
यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली

३.११.४०इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः
प्रसादयामास मुनिं नैतदेवं भवेदिति

३.११.४१मैत्रेय उवाच

३.११.४२शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा
शापो न भविता तात विपरीते भविष्यति

३.११.४३वैशंपायन उवाच

३.११.४४स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः

३.११.४५मैत्रेय उवाच

३.११.४६नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः
एष ते विदुरः सर्वमाख्यास्यति गते मयि

३.११.४७वैशंपायन उवाच

३.११.४८इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्
किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत्