३.१२.१धृतराष्ट्र उवाच
३.१२.२किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत्समागमः
३.१२.३विदुर उवाच
३.१२.४शृणु भीमस्य कर्मेदमतिमानुषकर्मणः
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः
३.१२.५इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्
३.१२.६रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम्
३.१२.७तद्वनं तापसा नित्यं शेषाश्च वनचारिणः
दूरात्परिहरन्ति स्म पुरुषादभयात्किल
३.१२.८तेषां प्रविशतां तत्र मार्गमावृत्य भारत
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत
३.१२.९बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम्
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः
३.१२.१०दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्
३.१२.११सृजन्तं राक्षसीं मायां महारावविराविणम्
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम्
३.१२.१२तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह
३.१२.१३संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत्
३.१२.१४तस्योरुवाताभिहता ताम्रपल्लवबाहवः
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान्
३.१२.१५तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः
३.१२.१६पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः
३.१२.१७स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः
३.१२.१८तं समासाद्य वित्रस्ता कृष्णा कमललोचना
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने
३.१२.१९दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता
३.१२.२०मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्
३.१२.२१अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्
३.१२.२२स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत
३.१२.२३तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्
३.१२.२४प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः
३.१२.२५वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्
३.१२.२६के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम्
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः
३.१२.२७युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
आचचक्षे ततः सर्वं गोत्रनामादि भारत
३.१२.२८पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः
३.१२.२९हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
वनमभ्यागतो घोरमिदं तव परिग्रहम्
३.१२.३०किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम
उपपादितमद्येह चिरकालान्मनोगतम्
३.१२.३१भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम्
३.१२.३२सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्
अनेन हि मम भ्राता बको विनिहतः प्रियः
३.१२.३३वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्
३.१२.३४हिडिम्बश्च सखा मह्यं दयितो वनगोचरः
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा
३.१२.३५सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्
प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते
३.१२.३६अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा
३.१२.३७अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम्
३.१२.३८यदि तेन पुरा मुक्तो भीमसेनो बकेन वै
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर
३.१२.३९एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्
संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्
३.१२.४०एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्
३.१२.४१ततो भीमो महाबाहुरारुज्य तरसा द्रुम
दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा
३.१२.४२चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः
३.१२.४३निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम्
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत
३.१२.४४इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा
३.१२.४५यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि
पातयामास वेगेन कुलिशं मघवानिव
३.१२.४६असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
३.१२.४७तदुदस्तमलातं तु भीमः प्रहरतां वरः
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्
३.१२.४८किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्
दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत
३.१२.४९तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा
३.१२.५०शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः
यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा
३.१२.५१मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः
चीराणीव व्युदस्तानि रेजुस्तत्र महावने
३.१२.५२तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च
३.१२.५३ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह
३.१२.५४तं शिलाताडनजडं पर्यधावत्स राक्षसः
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्
३.१२.५५तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्
उभावपि चकाशेते प्रयुद्धौ वृषभाविव
३.१२.५६तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः
३.१२.५७दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः
३.१२.५८अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः
३.१२.५९तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान्
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः
३.१२.६०तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि
३.१२.६१अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम्
३.१२.६२स भीमेन परामृष्टो दुर्बलो बलिना रणे
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्
३.१२.६३तत एनं परिश्रान्तमुपलभ्य वृकोदरः
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा
३.१२.६४विनदन्तं महानादं भिन्नभेरीसमस्वनम्
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्
३.१२.६५तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्
३.१२.६६आक्रम्य स कटीदेशे जानुना राक्षसाधमम्
अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः
३.१२.६७अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम्
भूतले पातयामास वाक्यं चेदमुवाच ह
३.१२.६८हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्
करिष्यसि गतश्चासि यमस्य सदनं प्रति
३.१२.६९इत्येवमुक्त्वा पुरुषप्रवीर;स्तं राक्षसं क्रोधविवृत्तनेत्रः
प्रस्रस्तवस्त्राभरणं स्फुरन्त;मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज
३.१२.७०तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः
भीमं प्रशस्याथ गुणैरनेकै;र्हृष्टास्ततो द्वैतवनाय जग्मुः
३.१२.७१एवं विनिहतः संख्ये किर्मीरो मनुजाधिप
भीमेन वचनात्तस्य धर्मराजस्य कौरव
३.१२.७२ततो निष्कण्टकं कृत्वा वनं तदपराजितः
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह
३.१२.७३समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्
३.१२.७४भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम्
३.१२.७५स मया गच्छता मार्गे विनिकीर्णो भयावहः
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः
३.१२.७६तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत
ब्राह्मणानां कथयतां ये तत्रासन्समागताः
३.१२.७७वैशंपायन उवाच
३.१२.७८एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम्
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा