३.११२.१ऋश्यशृङ्ग उवाच
३.११२.२इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी
सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः
३.११२.३समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः
नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः
३.११२.४आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे
द्वौ चास्य पिण्डावधरेण कण्ठ;मजातरोमौ सुमनोहरौ च
३.११२.५विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा
तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम्
३.११२.६अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः संप्रभाति
पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम्
३.११२.७विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः
चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति
३.११२.८वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः
पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा
३.११२.९यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति
तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात
३.११२.१०सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे
कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः
३.११२.११तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन
तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः
३.११२.१२तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः
तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता
३.११२.१३स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम्
वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम्
३.११२.१४न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि
एवंव्रतोऽस्मीति च मामवोच;त्फलानि चान्यानि नवान्यदान्मे
३.११२.१५मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम्
न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम्
३.११२.१६तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः
पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत्
३.११२.१७इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः
यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः
३.११२.१८गतेन तेनास्मि कृतो विचेता; गात्रं च मे संपरितप्यतीव
इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम्
३.११२.१९गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य
इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा