३. वनपर्व
३.११४.१वैशंपायन उवाच

३.११४.२ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय
आनुपूर्व्येण सर्वाणि जगामायतनान्युत

३.११४.३स सागरं समासाद्य गङ्गायाः संगमे नृप
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्

३.११४.४ततः समुद्रतीरेण जगाम वसुधाधिपः
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत

३.११४.५लोमश उवाच

३.११४.६एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी
यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै

३.११४.७ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्
उत्तरं तीरमेतद्धि सततं द्विजसेवितम्

३.११४.८समेन देवयानेन पथा स्वर्गमुपेयुषः
अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे

३.११४.९अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे
रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत्

३.११४.१०हृते पशौ तदा देवास्तमूचुर्भरतर्षभ
मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः

३.११४.११ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्
इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा

३.११४.१२ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्
अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर

३.११४.१३अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्
देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्

३.११४.१४इमां गाथामत्र गायन्नपः स्पृशति यो नरः
देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते

३.११४.१५वैशंपायन उवाच

३.११४.१६ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा
अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन्

३.११४.१७युधिष्ठिर उवाच

३.११४.१८उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन
मानुषादस्मि विषयादपेतः पश्य लोमश

३.११४.१९सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत
वैखानसानां जपतामेष शब्दो महात्मनाम्

३.११४.२०लोमश उवाच

३.११४.२१त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते

३.११४.२२एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते
यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान्

३.११४.२३यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने
सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा

३.११४.२४अवासीदच्च कौन्तेय दत्तमात्रा मही तदा
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम्

३.११४.२५न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम्

३.११४.२६विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः
प्रसादयां बभूवाथ ततो भूमिं विशां पते

३.११४.२७ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव
पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ

३.११४.२८सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि

३.११४.२९अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य
स्पृष्टा हि मर्त्येन ततः समुद्र;मेषा वेदी प्रविशत्याजमीढ

३.११४.३०अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः
एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह

३.११४.३१वैशंपायन उवाच

३.११४.३२ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत्
कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास