३. वनपर्व
३.११९.१जनमेजय उवाच

३.११९.२प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास्तथा
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन

३.११९.३ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः
वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम्

३.११९.४वैशंपायन उवाच

३.११९.५प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः
वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे

३.११९.६ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः
वनमाली हली रामो बभाषे पुष्करेक्षणम्

३.११९.७न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय
युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः

३.११९.८दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति
धर्मादधर्मश्चरितो गरीया;नितीव मन्येत नरोऽल्पबुद्धिः

३.११९.९दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये
किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः संजनिता नराणाम्

३.११९.१०अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता
चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत्

३.११९.११कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान्

३.११९.१२किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः
पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात्

३.११९.१३नासौ धिया संप्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम्
जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात्

३.११९.१४नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान्
विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म

३.११९.१५व्यूढोत्तरांसान्पृथुलोहिताक्षा;न्नेमान्स्म पृच्छन्स शृणोति नूनम्
प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम्

३.११९.१६योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात्
श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम्

३.११९.१७स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः
वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे

३.११९.१८न ह्यस्य वीर्येण बलेन कश्चि;त्समः पृथिव्यां भविता नरेषु
शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात्

३.११९.१९प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु
स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः

३.११९.२०यो दन्तकूरे व्यजयन्नृदेवा;न्समागतान्दाक्षिणात्यान्महीपान्
तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम्

३.११९.२१यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः
सोऽयं वने मूलफलेन जीव;ञ्जटी चरत्यद्य मलाचिताङ्गः

३.११९.२२सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या
सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा

३.११९.२३त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च
एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः

३.११९.२४जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते
दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला