३.१२२.१लोमश उवाच
३.१२२.२भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः
समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः
३.१२२.३स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव
अतिष्ठत्सुबहून्कालानेकदेशे विशां पते
३.१२२.४स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः
कालेन महता राजन्समाकीर्णः पिपीलिकैः
३.१२२.५तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः
तप्यति स्म तपो राजन्वल्मीकेन समावृतः
३.१२२.६अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम्
३.१२२.७तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः
एकैव च सुता शुभ्रा सुकन्या नाम भारत
३.१२२.८सा सखीभिः परिवृता सर्वाभरणभूषिता
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत्
३.१२२.९सा चैव सुदती तत्र पश्यमाना मनोरमान्
वनस्पतीन्विचिन्वन्ती विजहार सखीवृता
३.१२२.१०रूपेण वयसा चैव मदनेन मदेन च
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः
३.१२२.११तां सखीरहितामेकामेकवस्त्रामलंकृताम्
ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम्
३.१२२.१२तां पश्यमानो विजने स रेमे परमद्युतिः
क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः
तामाबभाषे कल्याणीं सा चास्य न शृणोति वै
३.१२२.१३ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता
३.१२२.१४किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने
अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान्
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत्
३.१२२.१५ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम्
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः
३.१२२.१६तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः
केनापकृतमद्येह भार्गवस्य महात्मनः
ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम्
३.१२२.१७तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु
३.१२२.१८ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते
३.१२२.१९आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्
पितरं दुःखितं चापि सुकन्येदमथाब्रवीत्
३.१२२.२०मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात्
३.१२२.२१एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत्
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्
३.१२२.२२अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि
३.१२२.२३ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम्
३.१२२.२४तामेव प्रतिगृह्याहं राजन्दुहितरं तव
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते
३.१२२.२५ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्
ददौ दुहितरं तस्मै च्यवनाय महात्मने
३.१२२.२६प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह
प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत्
३.१२२.२७सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च
३.१२२.२८अग्नीनामतिथीनां च शुश्रूषुरनसूयिका
समाराधयत क्षिप्रं च्यवनं सा शुभानना