३.१२३.१लोमश उवाच
३.१२३.२कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्
३.१२३.३तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम्
३.१२३.४कस्य त्वमसि वामोरु किं वने वै करोषि च
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने
३.१२३.५ततः सुकन्या संवीता तावुवाच सुरोत्तमौ
शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम्
३.१२३.६अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु
कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने
३.१२३.७भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि
३.१२३.८सर्वाभरणसंपन्ना परमाम्बरधारिणी
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी
३.१२३.९कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्
३.१२३.१०असमर्थं परित्राणे पोषणे च शुचिस्मिते
साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
३.१२३.११एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत्
रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः
३.१२३.१२तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ
युवानं रूपसंपन्नं करिष्यावः पतिं तव
३.१२३.१३ततस्तस्यावयोश्चैव पतिमेकतमं वृणु
एतेन समयेनैनमामन्त्रय वरानने
३.१२३.१४सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति
३.१२३.१५तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति
भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत्
३.१२३.१६श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः
३.१२३.१७ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह
अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो
३.१२३.१८ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः
तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः
३.१२३.१९तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि
यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने
३.१२३.२०सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम्
३.१२३.२१लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम्
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः
३.१२३.२२यथाहं रूपसंपन्नो वयसा च समन्वितः
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम्
३.१२३.२३तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम्
३.१२३.२४तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः
च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः