३.१३७.१लोमश उवाच
३.१३७.२चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः
जगाम माधवे मासि रैभ्याश्रमपदं प्रति
३.१३७.३स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते
विचरन्तीं स्नुषां तस्य किंनरीमिव भारत
३.१३७.४यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः
३.१३७.५सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा
३.१३७.६तत एकान्तमुन्नीय मज्जयामास भारत
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम
३.१३७.७रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर
३.१३७.८सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना
३.१३७.९शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम्
दहन्निव तदा चेतः क्रोधः समभवन्महान्
३.१३७.१०स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते
३.१३७.११ततः समभवन्नारी तस्या रूपेण संमिता
अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः
३.१३७.१२ततः समभवद्रक्षो घोराक्षं भीमदर्शनम्
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे
३.१३७.१३तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया
३.१३७.१४ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना
कमण्डलुं जहारास्य मोहयित्वा तु भारत
३.१३७.१५उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्
तत उद्यतशूलः स राक्षसः समुपाद्रवत्
३.१३७.१६तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया
यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः
३.१३७.१७जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः
३.१३७.१८स काल्यमानो घोरेण शूलहस्तेन रक्षसा
अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत्
३.१३७.१९स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव
३.१३७.२०निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः
ताडयामास शूलेन स भिन्नहृदयोऽपतत्
३.१३७.२१यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्
अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत्