३.१३६.१यवक्रीरुवाच
३.१३६.२प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः
अति चान्यान्भविष्यावो वरा लब्धास्तथा मया
३.१३६.३भरद्वाज उवाच
३.१३६.४दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्
स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि
३.१३६.५अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः
ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान्
३.१३६.६स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम्
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः
३.१३६.७तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति
३.१३६.८बालधिरुवाच
३.१३६.९यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः
अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति
३.१३६.१०भरद्वाज उवाच
३.१३६.११तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत
३.१३६.१२विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम्
आससाद महावीर्यं धनुषाक्षं मनीषिणम्
३.१३६.१३तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्
भव भस्मेति चोक्तः स न भस्म समपद्यत
३.१३६.१४धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्
निमित्तमस्य महिषैर्भेदयामास वीर्यवान्
३.१३६.१५स निमित्ते विनष्टे तु ममार सहसा शिशुः
तं मृतं पुत्रमादाय विललाप ततः पिता
३.१३६.१६लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत्
ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे
३.१३६.१७न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन
महिषैर्भेदयामास धनुषाक्षो महीधरान्
३.१३६.१८एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्
३.१३६.१९एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः
३.१३६.२०स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा
वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः
३.१३६.२१यवक्रीरुवाच
३.१३६.२२एवं करिष्ये मा तापं तात कार्षीः कथंचन
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम
३.१३६.२३लोमश उवाच
३.१३६.२४उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः
विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा