३.१३९.१लोमश उवाच
३.१३९.२एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः
सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान्
३.१३९.३तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू
वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता
३.१३९.४तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः
३.१३९.५अथावलोककोऽगच्छद्गृहानेकः परावसुः
कृष्णाजिनेन संवीतं ददर्श पितरं वने
३.१३९.६जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्
३.१३९.७मृगं तु मन्यमानेन पिता वै तेन हिंसितः
अकामयानेन तदा शरीरत्राणमिच्छता
३.१३९.८स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत
पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः
३.१३९.९इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन
मया तु हिंसितस्तातो मन्यमानेन तं मृगम्
३.१३९.१०सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम्
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने
३.१३९.११अर्वावसुरुवाच
३.१३९.१२करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः
३.१३९.१३लोमश उवाच
३.१३९.१४स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः
३.१३९.१५ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्
बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम्
३.१३९.१६एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः
३.१३९.१७प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा
न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः
३.१३९.१८उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत
नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम्
मम भ्रात्रा कृतमिदं मया तु परिरक्षितम्
३.१३९.१९प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप
तं ते प्रवरयामासुर्निरासुश्च परावसुम्
३.१३९.२०ततो देवा वरं तस्मै ददुरग्निपुरोगमाः
स चापि वरयामास पितुरुत्थानमात्मनः
३.१३९.२१अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः
३.१३९.२२ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्
३.१३९.२३समधीतं मया ब्रह्म व्रतानि चरितानि च
कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम्
तथायुक्तेन विधिना निहन्तुममरोत्तमाः
३.१३९.२४देवा ऊचुः
३.१३९.२५मैवं कृथा यवक्रीत यथा वदसि वै मुने
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा
३.१३९.२६अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम्
३.१३९.२७लोमश उवाच
३.१३९.२८यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम्
३.१३९.२९आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः
अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे