३.१५०.१वैशंपायन उवाच
३.१५०.२ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः
३.१५०.३परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्
३.१५०.४ततः पुनरथोवाच पर्यश्रुनयनो हरिः
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा
३.१५०.५गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे
इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित्
३.१५०.६धनदस्यालयाच्चापि विसृष्टानां महाबल
देशकाल इहायातुं देवगन्धर्वयोषिताम्
३.१५०.७ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह
३.१५०.८तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत
३.१५०.९यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्
३.१५०.१०शिलया नगरं वा तन्मर्दितव्यं मया यदि
यावदद्य करोम्येतत्कामं तव महाबल
३.१५०.११भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना
३.१५०.१२कृतमेव त्वया सर्वं मम वानरपुंगव
स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे
३.१५०.१३सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्
तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून्
३.१५०.१४एवमुक्तस्तु हनुमान्भीमसेनमभाषत
भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम्
३.१५०.१५चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम्
यदा सिंहरवं वीर करिष्यसि महाबल
तदाहं बृंहयिष्यामि स्वरवेण रवं तव
३.१५०.१६विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान्
शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत
३.१५०.१७गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्
३.१५०.१८अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ
३.१५०.१९स तानि रमणीयानि वनान्युपवनानि च
विलोडयामास तदा सौगन्धिकवनेप्सया
३.१५०.२०फुल्लपद्मविचित्राणि पुष्पितानि वनानि च
मत्तवारणयूथानि पङ्कक्लिन्नानि भारत
वर्षतामिव मेघानां वृन्दानि ददृशे तदा
३.१५०.२१हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने
सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ
३.१५०.२२महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत
३.१५०.२३कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः
३.१५०.२४कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन्
३.१५०.२५सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ
३.१५०.२६परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने
काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम्
३.१५०.२७मत्तकारण्डवयुतां चक्रवाकोपशोभिताम्
रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम्
३.१५०.२८तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत्
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति
३.१५०.२९तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्