३. वनपर्व
३.१५२.१भीम उवाच

३.१५२.२पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः

३.१५२.३अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम्
अनिलोढमितो नूनं सा बहूनि परीप्सति

३.१५२.४तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः

३.१५२.५राक्षसा ऊचुः

३.१५२.६आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा

३.१५२.७देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव

३.१५२.८अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम्

३.१५२.९तमनादृत्य पद्मानि जिहीर्षसि बलादितः
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्

३.१५२.१०भीम उवाच

३.१५२.११राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे

३.१५२.१२न हि याचन्ति राजान एष धर्मः सनातनः
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन

३.१५२.१३इयं च नलिनी रम्या जाता पर्वतनिर्झरे
नेयं भवनमासाद्य कुबेरस्य महात्मनः

३.१५२.१४तुल्या हि सर्वभूतानामियं वैश्रवणस्य च
एवंगतेषु द्रव्येषु कः कं याचितुमर्हति

३.१५२.१५वैशंपायन उवाच

३.१५२.१६इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः

३.१५२.१७कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्

३.१५२.१८गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम्
क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः

३.१५२.१९ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम्
प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति

३.१५२.२०ते तं तदा तोमरपट्टिशाद्यै;र्व्याविध्य शस्त्रैः सहसाभिपेतुः
जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः

३.१५२.२१वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता
सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः

३.१५२.२२तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम्
यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे

३.१५२.२३ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव
अशक्नुवन्तः सहिताः समन्ता;द्धतप्रवीराः सहसा निवृत्ताः

३.१५२.२४विदीर्यमाणास्तत एव तूर्ण;माकाशमास्थाय विमूढसंज्ञाः
कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः

३.१५२.२५स शक्रवद्दानवदैत्यसंघा;न्विक्रम्य जित्वा च रणेऽरिसंघान्
विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि

३.१५२.२६ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः
उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति

३.१५२.२७ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः
भीमस्य वीर्यं च बलं च संख्ये; यथावदाचख्युरतीव दीनाः

३.१५२.२८तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच
गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत्

३.१५२.२९ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः
भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम्