३. वनपर्व
३.१५३.१वैशंपायन उवाच

३.१५३.२ततस्तानि महार्हाणि दिव्यानि भरतर्षभ
बहूनि बहुरूपाणि विरजांसि समाददे

३.१५३.३ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः
प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन्

३.१५३.४पपात महती चोल्का सनिर्घाता महाप्रभा
निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः

३.१५३.५निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते
चचाल पृथिवी चापि पांसुवर्षं पपात च

३.१५३.६सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः
तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन

३.१५३.७तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति

३.१५३.८सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः
यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः

३.१५३.९एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः
अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः

३.१५३.१०तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे

३.१५३.११कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति
कृतवानपि वा वीरः साहसं साहसप्रियः

३.१५३.१२इमे ह्यकस्मादुत्पाता महासमरदर्शिनः
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः

३.१५३.१३तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी

३.१५३.१४यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना
तन्मया भीमसेनस्य प्रीतयाद्योपपादितम्

३.१५३.१५अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि
तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति

३.१५३.१६स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः

३.१५३.१७उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः

३.१५३.१८वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्
त्वमप्यमरसंकाश वह कृष्णां घटोत्कच

३.१५३.१९व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः
चिरं च तस्य कालोऽयं स च वायुसमो जवे

३.१५३.२०तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्

३.१५३.२१तमन्वियाम भवतां प्रभावाद्रजनीचराः
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम्

३.१५३.२२तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ

३.१५३.२३आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः

३.१५३.२४ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने
प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम्

३.१५३.२५तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्
ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान्

३.१५३.२६उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम्
प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्

३.१५३.२७तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्

३.१५३.२८साहसं बत भद्रं ते देवानामपि चाप्रियम्
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्

३.१५३.२९अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च
तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः

३.१५३.३०एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः

३.१५३.३१ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम्
नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान्
विनयेनानताः सर्वे प्रणिपेतुश्च भारत

३.१५३.३२सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः
विदिताश्च कुबेरस्य ततस्ते नरपुंगवाः
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः