३.१५९.१वैश्रवण उवाच
३.१५९.२युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः
लोकतन्त्रविधानानामेष पञ्चविधो विधिः
३.१५९.३धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन्
३.१५९.४धृतिमान्देशकालज्ञः सर्वधर्मविधानवित्
क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै
३.१५९.५य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु
स लोके लभते वीर यशः प्रेत्य च सद्गतिम्
३.१५९.६देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह
३.१५९.७पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते
कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति
३.१५९.८अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्
वृथाचारसमारम्भः प्रेत्य चेह च नश्यति
३.१५९.९साहसे वर्तमानानां निकृतीनां दुरात्मनाम्
सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः
३.१५९.१०अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ
३.१५९.११आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्
तामिस्रं प्रथमं पक्षं वीतशोकभयो वस
३.१५९.१२अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः
रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः
३.१५९.१३साहसेषु च संतिष्ठन्निह शैले वृकोदरः
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर
३.१५९.१४इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः
उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः
३.१५९.१५तथैव चान्नपानानि स्वादूनि च बहूनि च
उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ
३.१५९.१६यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः
३.१५९.१७आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर
३.१५९.१८अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित्
भीमसेनादवरजः फल्गुनः कुशली दिवि
३.१५९.१९याः काश्चन मता लोकेष्वग्र्याः परमसंपदः
जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये
३.१५९.२०दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि
३.१५९.२१न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु
३.१५९.२२स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः
मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत
३.१५९.२३योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्
स शंतनुर्महातेजाः पितुस्तव पितामहः
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना
३.१५९.२४सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः
पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति
३.१५९.२५अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति
३.१५९.२६वैशंपायन उवाच
३.१५९.२७ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः
३.१५९.२८ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः
३.१५९.२९स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः
कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः
३.१५९.३०शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः
साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः
३.१५९.३१एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्
अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः
३.१५९.३२तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः
३.१५९.३३पक्षिणामिव निर्घोषः कुबेरसदनं प्रति
बभूव परमाश्वानामैरावतपथे यताम्
३.१५९.३४ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम्
३.१५९.३५ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम्
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात्
३.१५९.३६तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता
समरे निहतास्तस्मात्सर्वे मणिमता सह
३.१५९.३७पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम्
सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः