३. वनपर्व
३.१६.१युधिष्ठिर उवाच

३.१६.२वासुदेव महाबाहो विस्तरेण महामते
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः

३.१६.३वासुदेव उवाच

३.१६.४हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम्
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्

३.१६.५अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः

३.१६.६तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्
अभिसारेण सर्वेण तत्र युद्धमवर्तत

३.१६.७पुरी समन्ताद्विहिता सपताका सतोरणा
सचक्रा सहुडा चैव सयन्त्रखनका तथा

३.१६.८सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा
सकचग्रहणी चैव सोल्कालातावपोथिका

३.१६.९सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका
समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला

३.१६.१०सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा
लोहचर्मवती चापि साग्निः सहुडशृङ्गिका

३.१६.११शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ
द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः

३.१६.१२पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे

३.१६.१३मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता
उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः

३.१६.१४आघोषितं च नगरे न पातव्या सुरेति ह
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः

३.१६.१५प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः

३.१६.१६आनर्ताश्च तथा सर्वे नटनर्तकगायनाः
बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान्

३.१६.१७संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः

३.१६.१८उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः

३.१६.१९प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्
प्रकृत्या चायुधोपेतं विशेषेण तदानघ

३.१६.२०सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा

३.१६.२१न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे

३.१६.२२अनु रथ्यासु सर्वासु चत्वरेषु च कौरव
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्

३.१६.२३दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्
कृतापदानं च तदा बलमासीन्महाभुज

३.१६.२४न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः

३.१६.२५एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन